SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ पहारेण सहसात् कारयत - आशु पञ्चत्वं नयत तथा विविधं परामृशत - नानापीडाकरणैर्बाधयत, तांश्चैवम्भूतान् 'स्प शन्' दुःखविशेषान् 'धीरः' अक्षोभ्यः तैः स्पर्शैः स्पृष्टः सन्नधिसहेत, तथा परैः क्षुत्पिपासापरीप हैः स्पृष्टः सन्नधिसहेत, न तु पुनरुपसर्गैः परीषहैर्वा तर्जितो विक्लवतामापन्नस्तदुद्देशिकादि कमभ्युपेयादनुकूलैर्वा सान्त्ववादादिभिरुपसर्गितो नादद्याद्, अपि तु सति सामर्थ्ये जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह- नानाविधोपसर्गजनितान् स्पर्शानधिस हेत, अथवा साधूनामाचारगोचरम् - आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैर्द्रव्यविचारं, तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत, अत्र च पिण्डैपणासूत्राणि पठितव्यानि अपि च- "यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्म्मकृते तद्भवेद्देयम् ॥ १ ॥” किं सर्वस्य सर्वं कथयेत् ?, नेति दर्शयति – 'तर्कयित्वा ' पर्यालोच्य पुरुषं तद्यथा - कोऽयं पुरुषः कञ्च नतोऽभिगृहीतोऽनभिगृहीतो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य यथार्हं यथाशक्ति चावेदयेत्, सत्यां च शक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदृशम्-अनन्यसदृशं स्वपरपक्ष स्थापनाव्युदासद्वारेणावेदयेदिति, अथ सामर्थ्यविकलः स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह- सति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षीत, 'अथवे' त्यन्यथाभावे तु वागुध्या व्यवस्थितः सन्नात्महितमाचरन् 'गोचरस्य' पिण्डविशुद्ध्यादेराचारगोचरस्य 'आनुपूर्व्या' उद्गमप्रश्नादिरूपया स म्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः ? - आत्मगुप्तः सन् सततोपयुक्त इत्यर्थः, नैतन्मयोच्यत इत्याह- 'बुद्धैः' कल्प्याकल्प्य - विधिज्ञैः 'एतत्' पूर्वोक्तं प्रवेदितम् ॥ एतद्वा वक्ष्यमाणमित्याह
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy