________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥२७२॥
भिक्खुं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह
विमो०८ खणह छिंदह दहह पयह आलंपह विलुपह सहसाकारेह विप्परामुसह, ते फासे धीरो
उद्देशकः२ पुटो अहियासए अदुवा आयारगोयरमाइक्खे, तकिया णमणेलिसं अदुवा वइगुत्तीए
गोयरस्स अणुपुब्वेण संमं पडिलेहए आयतगुत्ते बुद्धेहिं एयं पवेइयं (सू० २०४) ___ 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्ट्वा कश्चिद्यथा भो भिक्षो! भवदर्थमशनादिकमावसथं वा संस्करिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीपत्साध्वाचारविधिज्ञोऽतोऽपृष्दैव छद्मना ग्राहयिष्यामीत्यभिसन्धायाशनादिकं विदध्यात्, स च तदपरिभोगे श्रद्धाभङ्गाच्चाटुशताग्रहणाच्च रोषावेशान्निःसुखदुःखतयाऽलोकज्ञा इत्यनुशयाच राजानुसृष्टतया च न्यकारभावनातः प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-एकाधिकारे वह्वतिदेशाद्य इमे प्रश्नपूर्वकमप्रश्नपूर्वकं वा आहारादिकं 'ग्रन्थात् महतो द्रव्यव्ययाद् 'आहुत्य' ढौकित्वा आहुतग्रन्था वा-व्ययीकृतद्रव्या वा तदपरिभोगे 'स्पृशन्ति' उपतापयन्ति, कथमिति चेद्दर्शयति-'स' ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोपरांश्च हननादौ चोदयति, तद्यथा-हतैनं साधु दण्डाभि-||3|॥२७२॥ 'क्षणुत'व्यापादयत छिन्नहस्तपादादिकं दहत अन्यादिना पचत उरुमांसादिकं आलुम्पत वस्त्रादिकं विलुम्पत सर्वस्वाः