________________
विमो०८
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देसका
॥२६४॥
STORISSASSASSIST
विधत्त इति गाथाचतुष्टयार्थः॥ अनया च द्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्या क्रमेण आहारं परितनुं कुर्वत आहाराभिलापोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाहकह नाम सो तवोकम्मपंडिओ जो न निचुजुत्तप्पा । लहुवित्तीपरिक्खेवं वच्चइ जेमंतओ चेव ? ॥२७४॥
आहारेण विरहिओ अप्पाहारो य संवरनिमित्तं । हासंतो हासंतो एवाहारं निरंभिजा ॥ २७५ ॥ कथं नामासौ तपःकर्मणि पण्डितः स्यात् ?, यो न नित्यमुधुक्तात्मा सन् वर्त्तनं वृत्तिः-द्वात्रिंशकवलपरिमाणलक्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपः तद्भावं यो भुझान एव न व्रजति कथमसौ तपःकर्मणि पण्डितः स्यात् ?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान् वा वासरान् स्थित्वा पुनः पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थं १–'संवरनिमित्तम्' अनशननिमित्तं, एवमसावुपवासैः प्रतिपारणकमल्पाहारतवा च हासयन् ह्रासयन्नाहारमुक्तविधिना पश्चान्निरुन्ध्याद्-भक्तंप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः॥ उक्तो नामनिष्पन्नो निक्षेपस्तन्नियुक्तिश्च, साम्प्रतं सूत्रांनुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से बेमि समणुन्नस्स वा असमणुन्नस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंच्छणं वा नो पादेजा नो निमंतिजा नो कुजा वेयावडियं परं आढायमाणे तिबेमि (सू० १९७) .
॥२६४॥