________________
निप्फाईया य सीसा सउणी जह अंडगं पयत्तेणं । बारससंवच्छरियं सो संलेह अह करेइ ॥ २७० ॥ चत्तारि विचित्ताई विगईनिजूहियाई चत्तारि । संवच्छरे य दुन्नि उ एगंतरियं तु आयामं ॥ २७१ ॥ नाइविगिट्ठो उ तवो छम्मासे परिमियं तु आयामं । अन्नेवि य छम्मासे होइ विगिहें तवोकम्मं ॥२७२॥
वासं कोडीसहियं आयाम काउ आणुपुवीए । गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥ २७३ ॥ __ सूत्रार्थतदुभयैः स्वशिष्याः प्रातीच्छका वा 'निष्पादिता' योग्यतामापादिताः शकुनिनेवाण्डकं प्रयत्नेन, ततोऽसौ | 'अर्थ' अनन्तरं द्वादशसांवत्सरिकी संलेखनां करोति, तद्यथा-चत्वारि वर्षाणि 'विचित्राणि' विचित्रतपोऽनुष्ठानवन्ति भवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिके कृते पारणकं सविकृतिकमन्यथा वेति, पश्चमादारभ्य संवत्सरादपराणि चत्वारि वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनि चतुर्थमपरेधुराचाम्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते-तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थ षष्ठं वा | विधाय परिमितेनाचाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवतः पूर्वोक्त-15 मेव पारणकं, द्वादशं तु संवत्सरं कोटीसहितमाचाम्लं करोति, प्रतिदिनमाचाम्लेन भुते, आचाम्लस्य कोव्याः कोटिं मीलयत्यतः कोटीसहितमित्युक्तं, चतुर्मासावशेषे तु संवत्सरे तैलगण्डूषानस्खलितनमस्काराद्यध्ययनायापगतवातमुखय
त्रप्रचारार्थ पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्त्या सर्व विधाय सति सामर्थ्ये गुरुणाऽनुज्ञातो गिरिकन्दरं होगत्वा स्थण्डिलं प्रत्युपेक्ष्य 'अर्थ' अनन्तरं पादपोपगमनं करोति, इङ्गितमरणं वा भक्तप्रत्याख्यानं वा यथासमाधि