________________
विमो.
उद्देशका
श्रीआचा- मरणं पादपोपगमनं वा यथा भवति तथोच्यत इति गाथापञ्चकसमासार्थों, व्यासार्थस्तु प्रत्युद्देशक वक्ष्यते । निक्षेपस्तु राङ्गवृत्तिः त्रिधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु विमोक्ष इति (शी०) नाम, तत्र विमोक्षस्य निक्षेपं चिकीर्षुः नियुक्तिकार आह
नामंठवणविमुक्खो दब्वे खित्ते य काल भावे य । एसो उ विमुक्खस्सा निक्खेवो छविहो होइ ॥२५८॥ ॥२६ ॥
नामविमोक्षः स्थापनाविमोक्षो द्रव्यविमोक्षः क्षेत्रविमोक्षः कालविमोक्षो भावविमोक्षश्चेत्येवं विमोक्षस्य निक्षेपः षोढा भभवतीति गाथासमासार्थः ॥ व्यासार्थप्रतिपादनाय तु सुगमनामस्थापनाव्युदासेन द्रव्यादिविमोक्षप्रतिपादनद्वारेणाह| दवविमुक्खो नियलाइएसु खित्तंमि चारयाईसुं। काले चेइयमहिमाइएसु अणघायमाईओ ॥ २५९ ॥ | द्रव्यविमोक्ष द्वेधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्य|तिरिक्तो निगडादिकेषु विषयभूतेषु यो विमोक्षः स द्रव्यविमोक्षः, सुब्व्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो द्रव्येभ्यः सकाशाद्विमोक्षो द्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यूह्यायोज्यः, तद्यथा-द्रव्येण द्रव्यात् सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तु यस्मिन् क्षेत्रे चारकादिके व्यवस्थितो विमुच्यते क्षेत्रदानाद्वा यस्मिन्वा क्षेत्रे व्यावण्येते स क्षेत्रविमोक्षः, कालविमोक्षस्तु चैत्यमहिमादिकेषु कालेष्वनाघातादिघोषणापादितो यावन्तं कालं मुच्यते यस्मिन्वा काले व्याख्यायते सोऽभिधीयते इति गाथार्थः ॥ भावविमोक्षप्रतिपादनायाहदुविहो भावविमुक्खो देसविमुक्खो य सब्वमुक्खो य । देसविमुक्खा साहू सव्वविमुक्खा भवे सिद्धा ॥२६॥
ECORRENAGAR
॥२६॥