________________
अणुपुग्विविहारीणं भत्तपरिन्ना य इंगिणीमरणं । पायवगमणं च तहा अहिगारो होइ अट्ठमए ॥ २५७ ॥ ___ अत्राद्योद्देशकेऽयमर्थाधिकारः, तद्यथा- असमनुज्ञानामसमनोज्ञानां वा त्रयाणां त्रिषष्ट्यधिकानां प्रावादुकशतानां विमोक्षः-परित्यागः कार्यः, तथा तदाहारोपधिशय्यातदृष्टिपरित्यागश्च, पार्श्वस्थादयः पुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तु पञ्चस्वपि ज्ञानाचारादिष्वसमनोज्ञास्तेषां यथायोगं त्यागो विधेय इति १। द्वितीये तु अकल्पिकस्य-आधाकादेविमोक्षः-परित्यागः कार्यों, यदिवाऽऽधाकर्मणा कश्चिन्निमन्त्रयेत्, ततः प्रतिषेधों विधेयः, तत्प्रतिषेधे च रुष्टस्य सतः सिद्धान्तसद्भावः कथनीयो यथैवम्भूतं दानं तव मम च न गुणायेति २। तृतीये तूद्देशकेऽयमर्थाधिकारः, तद्यथागोचरगतस्य यतेः शीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद् यथा-ग्रामधम्मैरुद्धाध्यमानस्य शृङ्गारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते आशङ्कितेवा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति३ । शेषेषु तूद्देशकेषु पञ्चस्वयमर्थाधिकारः, तद्यथा-उपकरणशरीराणां विमोक्षः-परित्यागस्तद्विषयः समासतो व्यासतस्तूच्यतेचतुर्थोद्देशके त्वयमर्थाधिकारः, तद्यथा-वैहानसम्-उद्बन्धनं गार्द्धपृष्ठम्-अपरमांसादिहृदयन्यासाद्द्धादिनाऽऽत्मव्यापादनम् , एतत् प्रकारद्वयं मरणं वाच्यं ४। पश्चमके तु ग्लानता भक्तपरिज्ञा च बोद्धव्या५। षष्ठे त्वेकत्वम्-एकत्वभावना तथेङ्गितमरणं च बोद्धव्यं ६। सप्तमकेषु प्रतिमाः-भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति/अष्टमके त्वयमर्थाधिकारस्तद्यथा -अनुपूर्वविहारिणां-प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिज्ञेङ्गित