SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ भावविमोक्षो द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा - देशतः सर्वतश्च तत्र देशतोऽविरतसम्यग्दृष्टिनामाद्यकषायचतुष्कक्षयोपशमा देशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां च द्वादशकषायक्षयोपशमात् क्षपकश्रेण्यां च यस्य यावन्मात्रं क्षीणं तस्य तत्क्षयाद्देशविमुक्ततेत्यतः साधवो देशविमुक्ता, भवस्थ केवलिनोऽपि भवोपग्राहिसद्भावादेश विमुक्ता एव, सर्वविमुक्ताश्च सिद्धा भवेयुः इति गाथार्थः ॥ ननु बन्धपूर्वकत्वा| न्मोक्षस्य निगडादिमोक्षवदित्याशङ्कांव्यवच्छेदार्थ बन्धाभिधानपूर्वकं मोक्षमाह - कम्मयदव्वेहि समं संजोगो होइ जो उ जीवस्स । सो बंधो नायव्वो तस्स विओगो भवे मुक्खो ॥ २६९ ॥ कर्म्मद्रव्यैः' कर्म्मवर्गणाद्रव्यैः 'समं' सार्द्धं यः संयोगो जीवस्य सबन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपो वज्रस्पृष्टनिधत्तनिकाचनावस्थश्च ज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तैः कर्म्मपुद्गलैर्बद्धः, बध्यमाना अप्यनन्तानन्ता एव, | शेषाणामग्रहणयोग्यत्वात् कथं पुनरष्टप्रकारं कर्म्म बनातीति चेद्, उच्यते, मिथ्यात्वोदयादिति, उक्तं च - "केहं णं भंते! जीवा अट्ठ कम्मपगडीओ बंधंति ?, गोअमा ! णाणावरणिजस्स कम्मस्स उदएणं दरिसणावरणिज्जं कम्मं निअ च्छन्ति, दंसणमोह णिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छन्ति मिच्छत्तेणं उन्नेणं एवं खलु जीवे अट्ठकम्मपगडीओ वं १ अत्र कथमन्यथा? इत्येवंरूपा २ कथं भदन्त । जीवा अष्टकर्मप्रकृतीर्बभ्रन्ति ?, गौतम! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीयं कर्म बञ्जन्ति ( उदयते), दर्शनमोहनीयस्य कर्मण उदयेन मिध्यात्वं बध्नन्ति ( उदयते), मिथ्यावेन उदितेन एवं खलु जीवोऽष्टकर्मप्रकृती प्राति..
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy