________________
अक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्ध्यकम्र्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिवाक्षेतेति । कीदृक्षोऽधिसहेतेत्यत आह, यदिवा स एवम्भूतो न केवलमात्मनस्त्राता सदुपदेशदानतः परेषामपीति ||
दर्शयितुमाह-ओजः' एको रागादिविरहात् सम्यग् इतं-गतं दर्शनमस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिवा 'शमितम्' उपशम नीतं 'दर्शन' दृष्टिनिमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवा समतामितगतं दर्शन-दृष्टिरस्येति समितदर्शनः, समदृष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धाय धर्ममाचक्षीतेति दर्शयति–'दयां' कृपां 'लोकस्य' जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा । क्षेत्रतःप्राचीनं प्रतीचीनं दक्षीणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतो यावजीवं, भावतोऽरतोऽद्विष्टः, कथमाचक्षीत?-तद्यथा-सर्वे जन्तवो दुःखद्विषः सुखलिप्सवः आत्मोपमया
सदा द्रष्टव्या इति, उक्तं च-"न तत्सरस्य संदध्यात्, प्रतिकूलं यदात्मनः । एष सङ्क्राहिको धर्मः, कामादन्यः जाप्रवर्तते ॥१॥" इत्यादि, तथा धर्ममाचक्षाणो 'विभजेत्' द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणा|| तिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वा धर्म विभजेत् , यदिवा कोऽयं पुरुषः कं नतो| |देवताविशेषमभिगृहीतोऽनभिगृहीतो वा एवं विभजेत् , तथा कीर्तयेद्तानुष्ठानफलं, कोऽसौ कीर्तयेद् !-वेदविद्, आ
|गमविदिति । नागार्जुनीयास्तु पठन्ति-"जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धम्मकहालद्धिसम्पन्ने | सूखेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे के वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभू धम्मस्स आपवित्तए" इति,