________________
धुता. ६
श्रीआचाराजवृत्तिः (शी०)
॥२५५॥
साधुरनुकूलोपसग्गैंरुपसम्गितो दृढधर्मेति च कृत्वा वन्दित इति ३, तथा पृथग विविधा मात्रा येषूपसर्गेषु ते पृथग्विमात्रा:-हास्यादित्रयान्यतरारब्धा अन्यतरावसायिनो भवन्ति, तद्यथा भगवति सङ्गमकेनेव विमारब्धाः प्रदेषेण पर्यवसिता इति, मानुषा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनाभेदाच्चतुर्द्धा, तत्र हास्यादेवसेनागणिका क्षुल्लकमुपसर्गयन्ती दण्डेन ताडिता राजानमुपस्थिता, क्षुल्लकेन तदाइतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति १, प्रद्वेषाद्वजसुकुमारस्यैव श्वशुरसोमभूतिनेति २, विमर्शाश्चन्द्रगुतो राजा चाणाक्यचोदितो धर्मपरीक्षार्थमन्तःपुरिकाभिर्धर्ममावेदयन्तं साधुमुपसर्गयति, साधुना च प्रताग्य ता. श्रीगृहोदाहरणं राज्ञे निवेदितमिति ३, तत्र कुत्सितं शीलं कुशीलं तस्य प्रतिसेवनं कुशीलप्रतिसेवनं तदर्थ कश्चिदुपसर्ग कुर्यात्, तद्यथा-ईर्ष्यालुगृहपर्युषितः साधुश्चतसृभिः सीमन्तिनीभिःमोषितभर्तृकाभिः सकलां रजनीमेकैकया प्रतियाममुपसम्गितो न चासौ तासु लुल्लुभे मन्दरवन्निष्प्रकम्पोऽभूदिति ४॥ तैर्यग्योना अपि भयप्रद्वेषाहारापत्यसंरक्षणभेदाचतुर्दैव, तत्र भयात्सोदिभ्यः, प्रदेषाधथा भगवतश्चण्डकौशिकात्, आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य इति । तदेवमुक्तविधिनोपसर्गापादकत्वाजना लूषका भवन्ति, अथवा तेषु प्रामादिषु स्थानेषु तिष्ठतो गच्छतो वा सर्ग:-दुःखविशेषा आत्मसंवेदनीयाः स्पृशन्ति-अभिभवन्ति, ते चतुर्विधाः -तद्यथा-घनताऽक्षिकणुकादेः पतनता धमिमू विना स्तम्भनता वातादिना श्लेषणता तालुनः पातादल्यादेवो स्थात्, यदिवा वातपित्तश्लेष्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा निष्किश्चनतया तृणस्पर्शदंशमशकशीतोष्णाचापादिताः सर्गः-दुःखविशेषाः कदाचिस्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीपहस्तान् सन्-िदुःखविशेषान् 'धीरः'
॥२५५॥