________________
अवन्त्यादयः साधुविहरणयोग्याः अर्द्धषड्विंशतिर्देशास्तेषु तदन्तरालेषु वा, तथा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य भिक्षोर्मामादीनधिशयानस्य कायोत्सर्गादि वा कुर्वत एके कालुष्योपहतात्मानो ये जना लूषयन्तीति लूषका भवन्ति, 'लूष हिंसायामित्यस्मात् ल्युड्, ते 'सन्ति' विद्यन्ते तत्र नारकास्तावदुपसर्गकरणं प्रत्यवस्तु, तिर्यगमरयोरपि कादाचित्कत्वान्मानुष्याणामेवानुकूलप्रतिकूलसद्भावाज्जनग्रहणं, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरो भयोपसर्गापादानेनोपसर्गयेयुरिति, तत्र दिव्याश्चतुर्विधाः, तद्यथा - हास्यात् १ प्रद्वेबाबू २ विमर्शात् ३ पृथग्विमात्रातो ४ वा, तत्र केलीकिलः कश्चिद्व्यन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात्, यथा भिक्षार्थं प्रविष्टैः क्षुल्लकैर्भिक्षा लाभार्थं पललविकटतर्पणादिनोपयाचितकं व्यन्तरस्य प्रपेदे, भिक्षावासौ च तद्याचमानस्य | कुतश्चिदुपलभ्य विकटादिकं तैर्बुदौके, तेनापि केल्यैव ते क्षुल्लकाः क्षीवा इव व्यधायिषतं १ प्रद्वेषेण यथा भगवतो माघमासरजन्यन्ते तापसीरूपधारिण्या व्यन्तर्योदकजटाभारवल्कलविप्रुहिस्सेचनमकारि २, विमर्शात्किमयं दृढधम्र्मा न | वेत्यनुकूलप्रतिकूलोपसर्गैः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिद्व्यन्तर्या स्त्रीवेषधारिण्या शून्यदेवकुलिकावासितः
१ 'पुरच्छ्रिमेणं कप्पड़ निग्गंधाण वा निग्गंधीण वा जाब मगहाओ एत्तए, दक्खिणेणं कप्पइ निग्गंधाण वा निग्गंधीण वा जाव कोसंबीओ एत्तए, पच्छिमेणं जाव थूणाविसभो, उत्तरेणं जाव कुणालाविसओ, ताव आरिए खिते, नो कप्पर इतो वाहिं'ति, अस्यां च आर्यभूमिकायां सार्द्धपञ्चविंशतिर्जनपदा धर्मक्षेत्राम्यईजिसकानि ॥