________________
...
श्रीआचाराङ्गवृत्तिः (शी०) ॥२५६॥
ध्यपु वा सदोस्थितेत कुर्वस्सु वा संसान च मृपावादादिशेमुधमकफलभूत
KKREKKA
कण्ठ्यं । स पुनः केषु निमित्तभूतेषु कीर्तयेदित्याह-स' आगमवित् स्वसमयपरसमयज्ञः 'उत्थितेषु वा' भावोत्थानेन यतिषु, वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयाम धर्म प्रवेदयेदिति, स्वशिष्येषु वा सदोत्थितेष्वज्ञातज्ञापनाय धर्म प्रवेदयेदिति, 'अनुत्थितेषु वा' श्रावकादिषु 'शुश्रूषमाणेषु' धर्म श्रोतुमिच्छत्सु गुर्वादेः पर्युपास्तिं कुर्वत्सु वा संसारोत्तारणाय धर्म प्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह-शमनं शान्तिः, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्, अनेन च मृषावादादिशेषव्रतसङ्ग्रहः, तथा 'उपशम' क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृतिः निर्वाणं मूलगुणोत्तरगुणयोरैहिकामुष्मिकफलभूतमाचक्षीत, तथा 'शौच सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात् , तथा मार्दवं मानस्तब्धतापरित्यागात्, तथा लाघवं सबाह्याभ्यन्तरग्रन्थपरित्यागात् , कथमाचक्षीतेति दर्शयति–'अनतिपत्य' यथावस्थितं वस्त्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः, केषां कथयति-'सर्वेषां प्राणिनां' दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणां, तथा 'सर्वेषां भूतानां' मुक्तिगमनयोग्येन भव्यत्वेन भूतानां-व्यवस्थितानां, तथा 'सर्वेषां जीवानां' संयमजीवितेन जीवतां जिजीविषूणां च, तथा 'सर्वेषां सत्त्वानां' तिर्यड्नरामराणां संसारे क्लिश्यमानतया करुणास्पदानामेकाथिकानि वैतानि प्राणादीनि वचनानि इत्यतस्तेषां क्षान्त्यादिकं दशविधं धर्म यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलो भिक्षुर्धर्मकथालब्धिमान् 'आचक्षीत' प्रतिपादयेदिति । यथा च धर्म कथयेत्तथाऽऽह
॥२५६॥