________________
उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहमेगेसिं सिलोए पावए भवइ, से समणो भवित्ता विब्भंते २ पासहेगे समन्नागएहिं सह असमन्नागए नाणेहिं अनममाणे विरएहिं अविरए दविएहिं अदविए अभिसमिचा पंडिए मेहावी निट्टियट्टे वीरे आगमेणं सया परक्कमिज्जासि तिबेमि ( सू० १९३ ) ॥ इति धूताध्ययने चतुर्थ उद्देशकः ६-४ ॥
केचन - विदितवेद्या वीरायमाणाः सम्यगुत्थानेनोत्थाय पुनः प्राण्युपमर्दका भवन्तीति, कथमुत्थाय ? - किमहमनेन 'भोः' इत्यामन्त्रणे 'जनेन' मातापितृपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायं कस्यचिदपि कार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहं करिष्ये १, यदिवा प्रविप्रजिषुः केनचिदभिहितः किमनया सिकताकवलसन्निभया प्रव्रज्यया करिष्यति भवान् ?, अदृष्टवशायातं तावद्भोजनादिकं भुङ्क्ष्वेत्यभिहितो विरागतामापनो ब्रवीतिकिमहमनेन भोजनादिना करिष्ये १, भुक्तं मयाऽनेकशः संसारे पर्यटता तथापि तृप्तिर्नाभूत्, तत्किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं ततो 'मातरं' जननीं 'पितरं' जनयितारं 'हित्वा' त्यक्त्वा 'ज्ञातयः' पूर्वापरसम्बन्धिनः स्वजनास्तान् परिगृह्यत इति परिग्रहः- धनधान्यहिरण्यद्विपदचतुष्पदादिः तं किम्भूताः ? - वीरमिवात्मानमाचरन्तो वीरायमाणाः, सम्यक् संयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैर्हिसा विहिंसा
1646