________________
SSARKAKKARX4
पौनःपुन्येनारहट्टघटीयन्त्रन्यायेन जातिः-उत्पत्तिस्तां कल्पयन्ति, किम्भूतास्ते इत्याह-अधःसंयमस्थानेषु सम्भवन्तोवर्तमाना अविद्यया वाऽधो वर्तमानाः सन्तो विद्वांसो वयमित्येवं मन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति-आत्मनः श्लाघां कुर्वते, यत्किञ्चिज्जानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलोऽहमेवात्र बहुश्रुतो यदाचार्यों जानाति तन्मयाल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्षयेदिति । नात्मश्लाघतयैवासते, अपरानप्यपवदेयुरित्याह-उदासीनाः' रागद्वेषरहिता मध्यस्था बहुश्रुतत्वे सत्युपशान्तास्तान् स्खलितचोदनोद्यतान् परुष वदन्ति, तद्यथा-स्वयमेव तावत्कृत्यमकृत्यं वा जानीहि ततोऽन्येषामुपदेश्यसीति । यथा च परुष वदन्ति तथा सूत्रेणैव दर्शयितुमाह-'पलिय'ति अनुष्ठानं तेन पूर्वाचरितेनानुष्ठानेन तृणहारादिना प्रकथयेद्-एवम्भूतस्त्वमिति, अन्यथा वा कुण्टमण्टादिभिर्गुणैर्मुखविकारादिभिर्वा प्रकथयेदिति । किम्भूतैः?-'अतथ्यैः' अविद्यमानैरिति । उपसंहरन्नाह-'तद्' वाच्यमवाच्यं वा 'तं' वा धर्म श्रुतचारित्राख्यं 'मेधावी' मर्यादाव्यवस्थितो 'जानीयात्' सम्यक् परिच्छिन्द्यादिति ॥ सोऽसभ्यवादप्रवृत्तो बालो गुर्वादिना यथाऽनुशास्यते तथा दर्शयितुमाह
अहम्मट्टी तुमंसि नाम बाले आरंभट्ठी अणुवयमाणे हण 'पाणे घायमाणे हणओ यावि समणुजाणमाणे, घोरे धम्मे, उदीरिए उवेहइ णं अणाणाए, एस विसन्ने वियदे वियाहिए तिबेमि ( सू० १९२)