SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ षणं कषायनिग्रहप्राधान्यख्यापनार्थ, सम्यकू ख्यायते - प्रकाश्यतेऽनयेति संख्या - प्रज्ञा तया 'रीयमाणाः संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एत इत्येवमनुवदतोऽनु-पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेः द्वितीयैषा 'मन्दस्य' अज्ञस्य 'बालता' मूर्खता, एकं तावत्स्वतश्चारित्रापगमः पुनरपरानुद्युक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमन्येनाभिहिते कैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति ॥ अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारमावेदयेयुः, इत्येतद्दर्शयितुमाह नियमाणा वेगे आयारगोयरमाइक्खंति, नाणभट्ठा दंसणलूसिणो ( सू० १९० ) एके-कम्र्म्मोदयात् संयमान्निवर्त्तमाना लिङ्गाद्वा, वाशब्दादनिवर्त्तमाना वा, यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्त्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां द्वितीया बालता न भवत्येव, न पुनर्वदन्ति - एवंभूत एवाचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्त्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि - " नात्यायतं न शिथिलं, मथा युञ्जीत सारथिः । तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः ॥ १ ॥ " अपि च-जो जत्थ होइ भग्गो, ओवासं सो परं अविंदतो । गंतुं तत्थऽचयंतो, इमं पहाणंति घोसेति ॥ १ ॥ ” इत्यादि । किम्भूताः १ यो यत्र भवंति भनोऽवकाशं सोऽपरमविन्दन् । गन्तुं तत्रासमर्थ इदं प्रधानमिति घोषयति ॥ १ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy