________________
श्रीआचारावृत्तिः (शी०)
धुता०६ उद्देशका
॥२५॥
शृण्वन्तीति चेत्तदाह-समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शाखाजाण्यधीयते, यदिवा अनेनोपायन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्रम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तो
जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः-ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तो-नोपदेशे वर्तमाना विविधं दह्यमानाः कामैद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु 'समाधि' इन्द्रियाणिधानमाख्यातं तीर्थकृदादिभिः यः आवेदितः (तः)तं 'अजोषयन्त:' असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुषं वदन्ति-नास्मिन्विषये भवान् किश्चिजानाति, यथाऽहं सूत्रार्थ शब्दं गणितं निमित्तं वा जाने तथा कोऽन्यो जानीते, इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्ता-तीर्थकृदादिस्तमपि परुषं वदन्ति, तथाहि-कचित्स्खलिते चोदिता जगदुः-किमन्यदधिकं तीर्थकृद्धक्ष्यत्यस्मद्गलकर्तनादपीति, इत्यादिभिरपाचीनैरालापरलीकविद्यामदावलेपाच्छास्त्रकृतामपि दूषणानि वदेयुः ॥ न केवलं शास्तारं परुषं वदन्त्यपरानपि साधूनपवदेयुरित्येतदाह- .
सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्स बा
लया (सू० १८९) शीलम्-अष्टादशशीलाङ्गसहस्रसख्यं, यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलं| विद्यते येषां ते शीलवन्तः, तथा उपशान्ताः कषायोपशमात्, अत्र शीलवद्रहणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशे
॥२५०॥