________________
CAROLIGLICHSTANISHISHIGA
च्छेत् ॥१॥" द्वितीयस्त्वाह-नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह-सोऽपि वाचिकुण्ठो बुद्धिविकलः किं जा8 नीते?, त्वमपि च शुकवसाठितो निरूहापोह इत्यादीन्यन्यान्यपि दुर्गहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीतद तामापादयन स्वौद्धत्यमाविर्भावयन भाषते, उक्तं च-"अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वा
डायमित इति खादत्यङ्गानि दर्पण ॥१॥ क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः । शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति ॥२॥” इत्यादि, पाठान्तरं वा "हेच्चा उवसमं अहेगे पारुसियं, समारुहंति" त्यक्त्वोपशमम् 'अर्थ' अनन्तरं बहुश्रुतीभूताः एके न सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिरःकम्पनादिना वा प्रतिवचनं ददति । किं च-एके पुनर्ब्रह्मचर्य-संयमस्तत्रोषित्वा आचारो वा ब्रह्मचर्य तदर्थोऽपि ब्रह्मचयमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि तद्भसितास्तामाज्ञां-तीर्थकरोपदेशरूपां 'नो इति मन्यमानाः' नोशब्दो देशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः सातागौरवबाहुल्याच्छरीरबाकुशिकतामालम्बन्ते, यदिवा अपवादमालम्ब्य वर्तमाना उत्सर्गचोदनाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि “कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहियं" इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकांद्यपि कार्य, स्यादेतत्किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति?, तदुच्यते-'तुः' अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य' अवबुध्य च शास्तारमेव परुषं वदन्तीति सम्बन्धः । किमर्थं तर्हि
१ कुर्याद्भिक्षुग्लानस्य अग्लान्या समाहितं.