________________
श्रीआचारावृत्तिः (शी०)
॥२४९॥
HATAYUGAISAIANASSA
'अनुपूर्वेण' क्रमेण 'वाचिताः' पाठिताः, तत्र कालिकमहः प्रथमचतुर्थपौरुष्योरध्याप्यते उत्कालिकं तु कालवेलावर्ज धुता०६ सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिताः
उद्देशका शिष्याश्चारित्रं च ग्राहिताः, तद्यथा-युगमात्रदृष्टिना गन्तव्यम् कूर्मवत्सङ्कचिताङ्गेन भाव्यमित्यायेवं शिक्षा ग्राहिता वाचिताः-अध्यापिताः, कैरिति दर्शयति-तैर्महावीरैः-तीर्थकरैर्गणधराचार्यादिभिः, किम्भूतैः?-प्रज्ञानवद्भिः, ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो विशेषणं, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषाम्-आचार्यादीनाम् 'अन्तिके' समीपे प्रकर्षेण ज्ञायते अनेनेति प्रज्ञानं-Qतज्ञानं, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद्, 'उपलभ्य' लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयापनीतसदुपदेशोत्कटमदत्वात् त्यक्त्वोपशमं, स च द्वेधा-द्रव्यभावभेदात् , तत्र द्रव्योपशमः कतकफलाधापादितः कलुषजलादेः भावोपशमस्तु ज्ञानादित्रयात्, तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा-आक्षेपण्याद्यन्यतरया धर्मकथया कश्चिद् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति, तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्येव प्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलवोत्तम्भितगर्वाध्माताः 'पारुष्यं' परुषतां 'समाददति' गृहन्ति, तद्यथा-परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-वं न जानीचे न चैषां शब्दानामयमों यो भवताऽभाणि, अपि च-कश्चिदेव मादृशः शब्दार्थनिर्णयायालं, न सर्व KI॥२४९॥ इति, उक्तं च-"पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदम् नः । वादिनि च मल्लमुख्ये च माहगेवान्तरं ग