________________
स्वभावनां भावयन्नवमौदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि लगयितव्येति, किं च'सर्वतः' द्रव्यतो भावतश्च मुण्डो 'रीयमाणः ' संयमानुष्ठाने गच्छन्, किम्भूत इत्याह-यः 'अचेलः' अल्प चेलो जिनकल्पिको वा 'पर्युषितः ' संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि न प्रकामतयेत्याह - 'संचिक्खई' संतिष्ठते अवमौदर्ये । न्यूनोदरतायां वर्त्तमानः सन् कदाचित्प्रत्यनीकतया ग्राम कण्टकैस्तुद्येतेत्येतद्दर्शयितुमाह - 'स' मुनिर्वाग्भिराकुष्टो वा दण्डादिभिर्हतो वा लुश्चितो वा केशोत्पाटनतः पूर्वकृतकर्म्मपरिणत्युदयादेतदवगच्छन् सम्यक्तितिक्षमाणः परिव्रजेदिति, एतच्च भावयेत्, तद्यथा - “पावाणं च खलु भो कडाणं कम्माणं पुत्रिदुश्चिन्नाणं दुप्पडिकंताणं वेदयित्ता मुक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता" इत्यादि । कथं पुनर्वाग्भिराक्रुश्यत इत्याह- 'पलिअं 'ति कर्म्म जुगुप्सितमनुष्ठानं | तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा-भो कोलिक ! प्रत्रजित! त्वमपि मया सार्द्धमेवं जल्पसीति, अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दां विधत्ते, एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह - ' अतथ्यैः' वितथैरसद्भूतैः शब्दैश्वौरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शैश्च असद्भूतैः साधोः कर्त्तुमयुक्तैः करचरणच्छेदादिभिः स्वकृतादृष्टफलमित्येतत् 'सङ्ख्याय' ज्ञात्वा तितिक्षमाणः प्रव्रजेदिति, यदिवा एतत् सङ्ख्याय, तद्यथा - " पंचहि ठाणेहिं छउ
१ पापानां च खलु भोः कृतानां कर्मणां पूर्व दुखीर्णानां दुष्पराक्रान्तानां वेदयित्वा मोक्षः, नास्त्यवेदयित्वा, तपसा वा क्षपयित्वा २ पश्चभिः स्थानैश्छद्मस्थ उत्पन्नानुपसर्गान् सहते क्षमते तितिक्षते अध्यासयति, तद्यथा-यक्षाविष्टोऽयं पुरुषः, उन्मादप्राप्तोऽयं पुरुषः, दृप्तचित्तोऽयं पुरुषः मम च तद्भववेदनीयानि कर्माण्युदीर्णानि भवन्ति यदेष पुरुष आक्रोशति बध्नाति तेपते पियति परितापयति, मम च सम्यक् समानस्य यावदध्यासीनस्यैकान्ततः कर्मनिर्जरा भवति । पश्चभिः स्थानैः केवली उदीर्णान् परीषद्दानुपसर्गान् यावदध्यासयेत् यावत् ममाध्यासयतः बहवश्छ प्रस्थाः श्रमणा निर्मन्था उदीर्णान् परीषहोपसर्गान् सम्यक् सहिष्यन्ते यावद् अध्याविध्यन्ते.