________________
श्रीआचाराङ्गवृत्तिः (शी.)
| धुता. उद्देशकार
॥२४१॥
दुवा पकत्थ अतहेहिं सहफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्ख
माणे परिव्वए जे य हिरी जे य अहिरीमाणा (सू० १८३) 'अथ' अनन्तरमेके विशुद्धपरिणामतया आसनापवर्गतया 'धम्मै श्रुतचारित्राख्यं 'आदाय' गृहीत्वा वखपतनहादिधम्मोपकरणसमन्विता धर्मकरणेषु प्रणिहिताः परीपहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तं च-“यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यलेन पुनः प्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः॥१॥"। किम्भूताः पुनर्धमै चरेयुरित्याह-कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषका धर्मचरणे 'दृढाः' तपःसंयमादौ द्रढिमानमालम्बमाना धर्म चरन्तीति, किं च-सर्वी 'गृद्धिं' भोगकाशनं दुःखरूपतया ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् । तसरित्यागे गुणमाह-एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रहः संयमे कर्मधुननायां वा महामुनिर्भवति नापर इति । किं च–'अतिगत्य' अत्येत्यातिक्रम्य 'सर्वतः सर्वैः प्रकारैः 'सङ्गं सम्बन्धं पुत्रकलत्रादिजनितं कामानुपङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच 'इति' उक्तक्रमणकोऽहमस्मिन्-संसारोदरे, न चाहमन्यस्य कस्यचिदिति । एतद्भावनाभावितश्च यत्कुर्यात्तदाह-'अत्र' अस्मिन् मौनीन्द्रे प्रवचने विरतः सन् सावद्यानुष्ठानाशविधचक्रयालसामाचार्यो यतमानः कोऽसौ?-'अनगारः' प्रजितः, एक
RRRRRRRRRRA
॥२४१॥