SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ कहती विघटितमोहकपाटः सन् रतिं कुर्यादिति ? । उपसंहारमाह- 'एतत्' पूर्वोक्तं ज्ञानं सदा आत्मनि 'सम्यगनुवासयेः' व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । धूताध्ययनस्य प्रथमोदेशकः समाप्तः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके निजकविधूनना प्रतिपादिता, सा चैवं फलवती स्याद्यदि कर्म्मविधूननं स्याद्, अतः कर्म्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायात - स्यास्योद्देशकस्यादि सूत्रम् - आउरं लोगमायाए चइत्ता पुव्त्रसंजोगं हिच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अ णुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला (सू० १८१ ) 'लोकं' मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया वियोगात् कार्यावसादेन वा यदिवा जन्तुलोकं कामरागातुरम् 'आदाय' ज्ञानेन 'गृहीत्वा' परिच्छिद्य तथा त्यक्त्वा च 'पूर्वसंयोगं' मातापित्रादिसम्बन्धं, तथा' हित्वा 'गत्वोपशर्म उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयति-वसु द्रव्यं तद्भूतः कषायकालिमादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुवसु सराग इत्यर्थः, यदिवा वसुः साधुः अनुवसुः - श्रावकः, तदुक्तम् — “ वीतरागो वसुर्ज्ञेयो, जिनो वा संयतोऽथवा । सरागो ह्यनुवसुः प्रोक्तः, स्थविरः श्रावकोऽपि वा ॥ १ ॥" तथा ज्ञात्वा 'धर्मं श्रुतचारित्राख्यं
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy