SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२३९॥ AAVACCASIACC णपरिणामा अनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवन्निति ॥ अभि- धुता० ६ सम्बुद्धं च प्रविब्रजिषुमुपलभ्य यन्निजाः कुर्युस्तद्दर्शयितुमाह उद्देशका तं परिकमंतं परिदेवमाणा मा चयाहि इय ते वयंति-छंदोवणीया अज्झोववन्ना अकंदकारी जणगा रुयंति, अतारिसे मुणी (ण य) ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमइ?, एयं नाणं सया समणुवासिज्जासि त्तिबेमि (सू० १८०) धूताध्ययनोद्देशकः ६-१॥ 'तम्' अवगततत्त्वं गृहवासपराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृपुत्रकलत्रादयः परिदेवमाना माऽस्मान् परित्यज 'इति' एतत् ते कृपामापादयन्तो वदन्ति, किं चापरं वदन्तीत्याह-छन्देनोपनीताः छ-18 न्दोपनीताः-तवाभिप्रायानुवर्तिनस्त्वयि चाभ्युपपन्नाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो 'जनका मातापित्रादयो जना वा रुदन्ति । एवं च वदेयुरित्याह-न तादृशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्डविप्रलब्धेन 'जनका' मातापित्रादयः 'अपोढाः' त्यक्ता इति । स चावगतसंसारस्वभावो यत्करोति तदाह-न ह्यसावनुरक्तमपि बन्धुवर्ग 'तत्र' तस्मिन्नवसरे शरणं समेति, न तदभ्युपगमं करोतीत्यर्थः । किमित्यसो शरणं नैतीत्याह ॥२३९॥ कथं नु नामासौ 'तत्र' तस्मिन् गृहवासे सर्वनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिधे. रमते, कथं गृहवासे द्वन्द्वै
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy