________________
SAASAASAASAASAASA
लेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्वुडा अभिसंवुड्डा अभिसंबुद्धा
अभिनिकंता अणुपुव्वेण महामुणी (सू० १७९) 'भोः' इति शिष्यामन्त्रणं, यदहमुत्तरत्रावेदयिष्यामि भवतस्तद् 'आजानीहि'-अवधारय, 'शुश्रूषस्व' श्रवणेच्छां विधेहि 'भोः' इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय, नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहं, धूतम्अष्टप्रकारकर्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, अवहितेन च भवता भाव्यमिति । नागार्जुनीयास्तु पठन्ति-"धुतोवायं पवेयंति"अष्टप्रकारकर्मधूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः। कोऽसावुपाय इत्यत आह–'इह' अस्मिन् संसारे 'खलुः' वाक्यालङ्कारे आत्मनो भाव आत्मता-जीवास्तिता स्वकृतकर्मपरिणतिर्वा तयाऽभिसम्भूताः-सञ्जाताः, न पुनः पृथिव्यादिभूतानां कायाकारपरिणामतया ईश्वरप्रजापत्तिनियोगेन वेति, तेषु तेषूच्चावचेषु कुलेषु यथास्वं कर्मोदयापादितेषु 'अभिषेकेण' शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायं क्रमः-"सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् । अर्बुदाजायते पेशी, पेशीतोऽपि धनं भवेत् ॥१॥” इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवर्त्तनादभिनिवृत्ताः, ततः प्रसूताः सन्तोऽभिसंवृद्धाः, धर्मश्रवणयोग्यावस्थायां वर्तमाना धर्मकथादिकं निमित्तमासाद्योपलब्धपुण्यपापतयाऽभिसम्बुद्धाः, ततः सदसद्विवेकं जानानाः अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्थभावनोपबृंहितचर