________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २३८ ॥
दुःखं प्राप्तव्यमनेनेति बहुदुःख इत्येनं कामानुषङ्गं प्राणिनां क्लेशं वा 'बालो' रागद्वेषाकुलितः प्रकर्षेण करोति प्रकरोति, तज्जनितकर्म्मविपाकाच्च अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाहएतान् गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुनूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्सायै प्राणिनः परितापयेयुः, 'लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादित्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युपमर्दे प्रवर्त्तेरन्, नैतद्वधारयेयुः यथा - स्वकृतावन्ध्यकर्म्मविपाको दयादेतत्, तदुपशमाच्चोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति एतदेवाह - पश्यैतद्विमलविवेकावलोकनेन यथा 'नालं' न समर्थाः चिकित्साविधयः कम्र्मोदयोपशमं विधातुं, यद्येवं ततः किं कर्त्तव्यमिति दर्शयति- 'अलं' पर्याप्तं 'तव' सदसद्विवेकिनः 'एभिः ' पापोपादानभूतैश्चिकित्सा विधिभिरिति । किं च - 'एतत्' प्राण्युपमर्दादिकं 'पश्य' अवधारय हे 'मुने' ! जगत्रयस्वभाववेदिन् महद् - बृहद्भयहेतुत्वाद्भयं यद्येवं ततः किं कुर्यादिति दर्शयति- 'नातिपातयेत्' न हन्यात् कञ्चन प्राणिनं, यत एकस्मिन्नपि प्राणिनि - हन्यमानेऽष्टप्रकारमपि कर्म बध्यते तच्चानुत्तारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे बहू णचेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् वहून् ज्ञात्वा आसेवनाप्रज्ञयेति आतुरा:कामेच्छान्धा अपरान् प्राणिनः परितापयेयुः इत्यादिना प्रक्रमेणेति ॥ तदेवं रोगकामातुरतया सावद्यानुष्ठानप्रवृत्तानामुपदेशदानपुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्तां दिदर्शयिषुः प्रस्तावमारचयन्नाह -
आयाण भो सुस्सूस ! भो धूयवायं पवेयइस्सामि इह खलु अत्तत्ताए तेहिं तेहिं कु
धुता० ६ उद्देशकः१
॥ २३८ ॥