________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २४० ॥
यथातथावस्थितं धर्म्म प्रतिपद्याप्यथैके मोहोदयात्तथाविधभवितव्यतानियोगेन 'तं' धर्म्म प्रति पालयितुं न शक्नुवन्ति, किंभूताः ? - कुत्सितं शीलं येषां ते कुशीला इति, यत एव धर्मपालनाशक्ता अत एव कुशीलाः ॥ एवम्भूताश्च सन्तः किं कुर्युरित्याह
वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अणुपुव्वेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणिं वा मुहुत्त्रेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्ना चेए ( सू० १८२ )
केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यालब्धपूर्वी संसारार्णवोत्तरणप्रत्यलां बोधिद्रोणीमङ्गीकृत्य मोक्षतरुबीजं सर्वविरतिलक्षणं चरणं पुनर्दुर्भिवास्तया मन्मथस्य पारिप्लवतया मनसो लोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासापादितविषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयोदयासन्नप्रादुर्भावादयशः कीर्त्त्यत्कटतया अवगणय्याऽऽयतिमवि - चार्य कार्याकार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽधः कृतकुलक्रमाचारास्तत्त्यजेयुः, तत्त्यागश्च धम्मपकरणपरित्यागाद्भवतीत्यतस्तद्दर्शयति-वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीत', तथा 'पतङ्ग्रहः' पात्रं 'कम्बल' और्णिकं कल्पं पात्रनिर्योगं वा 'पादपुञ्छन कं' रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देश विरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्ततोsपि भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य पुनस्तत्त्य जेदित्याह - परीषहान् दुरधिसहनीयान् 'अनुक्र
धुता० ६
उद्देशकः २
॥ २४० ॥