SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ SHESA% धता श्रीआचाराङ्गवृत्तिः (शी०) ॥२३४॥ उद्दशका१ CONORMA संसारहदान्तवर्तिनस्तदवाप्तिः १, तस्मादवाप्य भवशतदुरापं कर्मविवरभूतं सम्यक्त्वं क्षणमप्येकं तत्र न प्रमादवता भाव्यमिति तात्पर्यार्थः। पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाह-भञ्जगा' वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदनशाखाकर्षणक्षोभामोटनभञ्जनरूपानुपद्रवान् सहमाना अपि 'सन्निवेशं स्थानं कर्मपरतया न त्यजन्ति, एवमित्यादिना दान्तिकमर्थ दर्शयति-'एव'मिति वृक्षोपमया 'अपिः' सम्भावने, 'एके' कर्मगुरवोऽनेकरूपेषु कुलेषूच्चावचेषु जाता धर्मचरणयोग्या अपि रूपेषु चक्षुरिन्द्रियानुकूलेधूपलक्षणार्थत्वाच्छन्दादिषु च विषयेषु 'सक्ताः' अध्युपपन्नाः शारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुताः अग्निदाहदग्धसर्वस्वा नानानिमित्ताहिताधयोऽपि न सकलदुःखावासं गृहवासं कर्मनिघ्नास्त्यक्तुमलम्, अपि तु तत्स्था एव तेषु तेषु व्यसनोपनिपातेषु सत्सु 'करुणं स्तनन्ति' दीनमाक्रोशन्ति, तद्यथा-हा तात! हा मातः हा दैव! न युज्यते भवत एवंविधेऽवसरे एवम्भूतं व्यसनमापादयितुं, तदुक्तम्-"किमिदमचिन्तितमसदृशमनिष्टमतिकष्टमनुपमं दुःखम् । सहसैवोपनतं मे नैरयिकस्येव सत्त्वस्य? ॥१॥” इत्यादि, यदिवा रूपादिविषयासक्ता उपचितकर्माणो नरकादिवेदनामनुभवन्तः करुणं स्तनन्तीति, न च करुणं स्तनन्तोऽप्येतस्मात् दुःखान्मुच्यन्ते इत्येतद्दर्शयितुमाह-दुःखस्य निदानम्-उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते 'मोक्षं दुःखापगमं मोक्षकारणं वा संयमानुष्ठानमिति । दुःखविमोक्षाभावे च यथा नानाव्याध्युपसृष्टाः संसारोदरे प्राणिनो विवर्तन्ते तथा दर्शयितुमाह-'अर्थ' इति वाक्योपन्यासार्थे पश्य त्वं तेषूच्चावचेषु कुलेषु, आत्मत्वाय-आत्मीयकर्मानुभवाय जाताः, तदुदयाच्चेमा अवस्थामनु- ॥४ भवन्तीत्याह-पोडशरोगवक्तव्यानुगतं श्लोकत्रय, वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं, तदस्यास्तीति गण्डी-गण्ड %%AREKASS ॥२३४॥ - र
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy