________________
प्रक्लमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयं; किम्भूतानित्याह-नात्मने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्ति किं कारणमित्याहसेशब्दस्तच्छब्दार्थे, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथा च कूम्मों महाहूदे विनिविष्टं चित्तं यस्यासौ विनिविष्टचित्तो-गार्श्वमुपगतः पलाशैः-पत्रैः प्रच्छन्नः पलाशप्रच्छन्नः, सूत्रे तु प्राकृतत्वाद्यत्ययः, 'उम्मग्गति विवरं उन्मज्यतेऽनेनेति वोन्मज्यम्, अर्द्ध वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः, तदसौ न लभतः इत्यक्षरार्थः । भावार्थस्त्वयम्कश्चिद् इदो योजनशतसहस्रविस्तीर्णः प्रबलशेवालघनकठिनवितानाच्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः, तन्मध्ये चैकं विस्रसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणं विवरमभूत् , तत्र चैकेन कूम्र्मेण निजयूथात् प्रभ्रष्टेन वियोगाकुलतयेतस्ततश्च शिरोधरां प्रक्षिपता कुतश्चित्तथाविधभवितव्यतानियोगेन तद्रन्ध्रे ग्रीवानिर्गमनमाप्तं, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीर्ण नभस्तलमीक्षाश्चक्रे, दृष्ट्वा चातीव मुमुदे, आसीच्चास्य मनसि-यदि तानि मद्वाण्येतत्स्वर्गदेश्यमदृष्टपूर्व मनोरथानामप्यविषयभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूर्णमन्वेषणाय वन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थ सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया हृदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विना|शमुपयात इति । अस्यायमर्थोपनयंः-संसारहूदे जीवकूर्मः कर्मशेवालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थ विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतः पुनः