SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) धुता०६ उद्देशकः ॥२३३॥ SHISHAS ESSASSOOSHA दासेन 'प्रत्युपेक्षिताः' प्रति उप-सामीप्येन ईक्षिताः-ज्ञाता भवन्ति स धर्ममाचष्टे नापर इति । इदमेवाह-'आख्याति' कथयति 'स' तीर्थकृत्सामान्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा, किमाख्याति?-'ज्ञान' ज्ञायन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः येन तज्ज्ञानं-मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति?-'अनीदृशं' नान्यत्रेदृशमस्तीत्यनीदृशं, यदिवा सकलसंशयापनयनेन धर्ममाचक्षाण एव स आत्मनो ज्ञानमनन्यसदृशमाख्याति । केषां पुनः स धर्ममाचष्ट इत्यत आह-स' तीर्थकृद्गणधरादिः 'कीर्तयति' यथावस्थितान् भावान् प्रतिपादयति 'तेषां' धर्माचरणाय सम्यगुत्थितानां, यदिवा उत्थिता द्रव्यतो भावतश्च, तत्र द्रव्यतःशरीरेण भावतो ज्ञानादिभिः, तत्र स्त्रियःसमवसरणस्था उभयथाऽप्युत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानां तु धर्ममावेदयति उत्तिष्ठासूनां च देवानां तिरश्चांच, येऽपि कौतुकादिना शृण्वन्ति तेभ्योऽप्याचष्टे, भावसमुत्थितान् विशिशेषयिषुराह-निक्षिप्ताः-संयमिताः मनोवाकायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषां निक्षिप्तदण्डानां, तथा 'समाहिताणं' सम्यगाहिताः-तपःसंयम उद्युक्ताः समाहिता अनन्यमनस्कास्तेषां, तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् 'इह' अस्मिन्मनुष्यलोके 'मुक्तिमार्ग' ज्ञानदर्शनचारित्रात्मकं कीर्तयतीति सम्बन्धः । तस्य च तीर्थकृतः साक्षाद्धर्ममावेदयतः केचन लघुकर्माणस्तथैव प्रतिपद्य धर्मचरणायोद्यच्छन्त्यपरे त्वन्यथेत्येतत्प्रतिपादयितुमाह-अपिशब्दश्चार्थे, चशब्दश्च वाक्योपन्यासाथै, एवं च तीर्थकृताऽऽवेदिते सत्येके-लब्धकर्मविवरा विविधं संयमसङ्ग्रामशिरसि पराक्रमन्ते, परान् वा इन्द्रियकमरिपून् आक्रमन्ते पराक्रमन्त इति । एतद्विपर्ययमाह-साक्षात्तीर्थकरे सकलसंशयच्छेत्तरि धर्ममावेदयति सत्येकान् ॥२३३॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy