________________
अह पास तेहिं कुलेहिं आयत्ताए जाया,-गंडी अहवा कोढी, रायसी अवमारियं । काणियं झिमियं चेव, कुणियं खुज्जियं तहा ॥१॥ उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसप्पि च, सिलिवयं महमेहणिं ॥२॥ सोलस एए रोगा अक्खाया अणुपुव्वसो । अह णं फुसंति आयंका, फासा य असमंजसा ॥३॥
मरणं तेसिं संपेहाए उववायं चवणं च नच्चा, परियागं च संपेहाए (सू० १७२) स्वर्गापवग्ौं तत्कारणानि च तथा संसारं तत्कारणानि चावबुध्यमानोऽनावारकज्ञानसद्भावाद् ‘इहे'ति मर्त्यलोके मानवेषु विषयभूतेषु धर्ममाख्याति स नरो भवोपग्राहिकर्मसद्भावात् मनुष्यभावव्यवस्थितः सन् धर्ममाचष्टे, न पुनयथा शाक्यानां कुड्यादिभ्योऽपि धर्मदेशनाः प्रादुष्ष्यन्ति, यथा वा वैशेषिकाणामुलूकभावेन पदार्थाविर्भावनम्, एवमस्माकं न, कथं ?-घातिकम्मक्षये तूपन्ननिरावरणज्ञानोमनुष्यभावापन्न एव कृतार्थोऽपि सत्त्वहिताय सदेवमनुजायां पर्षदि कथयतीति। किं तीर्थकर एव धर्ममाचष्टे उतान्योऽपि?, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविर्भावनं करोतीति दर्शयितुमाह-यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा 'इमाः' शस्त्रपरिज्ञायां साधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिताः 'जातयः' एकेन्द्रियादयः ‘सर्वतः' सर्वैः प्रकारैः सूक्ष्मवादरपर्याप्तकापर्याप्तकरूपैः सुष्छु-शङ्कादिव्यु
HASRKAR