SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ आ. सू. ४० मालावानित्यादि, अथवेत्येतत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा - 'कुष्ठी' कुष्ठमष्टा| दशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठांनि, तद्यथा-अरुणोदुम्बर निश्यजिह्व कपालकाकनादपौण्डरीकदडुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क १ महाकुष्ठे २ ककुष्ठ ३चर्मदल ४ परिसर्प ५ विस ६ सिध्म ७ विचर्चिका ८ किटिभ ९ पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्वे सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्भवतीति । तथा राजांसो - राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्भ्यः कारणेभ्यो भवति इति, उक्तं च – “त्रिदोषो जायते यक्ष्मा, गदो | हेतुचतुष्टयात् । वेगरोधात् क्षयाच्चैव, साहसाद्विषमाशनात् ॥ १ ॥” तथा - अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुर्खा, तद्वानपगत सदसद्विवेकः भ्रममूर्च्छादिकामवस्थामनुभवति प्राणीति, उक्तं च – “भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हृतस्मृतिः । अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः ॥ १॥" तथा 'काणियं'ति अक्षिरोगः, स च द्विधा - गर्भगतस्योत्पद्यते जातस्य च तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षं, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च | सर्वे रोगाः प्रादुष्ष्यन्तीति, उक्तं च - " वातात्पित्तात्कफाद्रक्तादभिष्यन्दश्चतुर्विधः । प्रायेण जायते घोरः, सर्वनेत्रामयाकरः ॥ १ ॥” इति, तथा - 'झिमियं'ति जाड्यता सर्वशरीरावयवानामवशित्वमिति, तथा 'कुणियं'ति गर्भाधानदोषाद् १ अपगतः स्मारः स्मरणं यस्मात् सः अपस्मारः तस्मिन्सति तद्रोगिणः सर्वविषया स्मृतिः नश्यति.
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy