SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवट्टाणा, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे ( सू० १६६ ) इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्य सामान्यतोऽभि धानम्, अनाज्ञा-अनुपदेशः स्वमनीषिकाचरितोऽनाचारस्तयाऽनाज्ञया तस्यां वा 'एके' इन्द्रियवशगा दुर्गतिं जिगमिषवः | स्वाभिमानग्रहग्रस्ताः सह उपस्थानेन - धर्म्मचरणाभासोद्यमेन वर्त्तन्त इति सोपस्थानाः, किल वयमपि प्रब्रजिताः सद| सद्धर्मविशेषविवेकविकलाः सावद्यारम्भतया प्रवर्त्तन्ते, एके तु न कुमार्गवासितान्तःकरणाः, किन्तु आलस्यावर्णस्तम्भाद्युपबृंहितबुद्धयः, 'आज्ञायां' तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानम् - उद्यमो येषां ते निरुपस्थाना:- सर्वज्ञप्र|णीतसदाचारानुष्ठानविकलाः । एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि 'ते' तव गुरुविनयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्म्मस्वामी स्वमनीषिकापरिहारार्थमाह - 'एतद्' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुप स्थानत्वमा| ज्ञायां च सोपमस्थानत्वमित्येत् 'कुशलस्य' तीर्थकृतो दर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह - कुमार्ग | परित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यं तस्य- आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्त्तितव्यं, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य - आचार्यस्य तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्य सर्वकार्येषु पुरः करोतीति तत्पुरस्कारः - आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी - तज्ज्ञानोपयुक्तः, तथा तनिवेशन:- सदा गुरुकुलनिवासी ॥ स एवंभूतः किंगुणः स्यादित्याह -
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy