________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक०५ उद्देशका
॥२२६॥
करणं तदात्रादिवद्भिनं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्मस्थाऽपीत्येवं भेदसम्भवे कुत ऐक्यमिति यश्चोदयेत्तं प्रति स्पष्टतरमाह-'येन' मत्यादिना ज्ञानेन करणभूतेन क्रियारूपेण वा विविधं-सामान्यविशेषाकारतया वस्तु जानाति विजानाति स आत्मा, न तस्मादात्मनो भिन्नं ज्ञानं, तथाहि-न करणतया भेदः, एकस्यापि कर्तृकर्मकरणभेदेनोपलब्धेः, तद्यथा-देवदत्त आत्मानमात्मना परिच्छिनत्ति, क्रियापक्षे पाक्षिको ह्यभेदो भवताऽप्यभ्युपगत एव, अपि च-भूतिर्येषां किवा सैव, कारकं सैव चोच्यत' इत्यादिनैकत्वमेवेति । ज्ञानात्मनोश्चैकत्वे यद्भवति तद्दर्शयितुमाह-तं' ज्ञानपरिणामं 'प्रतीत्य'आश्रित्यात्मा तेनैव 'प्रतिसङ्खचायते' व्यपदिश्यते, तद्यथा-इन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह-'एषः अनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात्, तस्य च सम्यग्भावेन शमितया वा 'पर्यायः' संयमानुष्ठानरूपो व्याख्यातः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ लोकसाराध्ययने पञ्चमोद्देशकः॥
उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके इदोपमेनाचार्येण भाव्यमित्येतदुक्तं, तथाभूताचार्यसंपर्काच्च कुमार्गपरित्यागो रागद्वेषहानिश्चावश्यंभाविनीत्यतस्तत्प्रतिपादनसम्बन्धेनागतस्यास्योद्देशकस्यादिसूत्रम्
॥२२६॥