________________
श्रीआचाराजवृत्तिः (सी०)
लोक ५ उद्देशका
॥ २२७॥
ARRANAGARSE%
अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवारण प
वायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा (सू० १६७) 'अभिभूय' पराजित्य परीषहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत् , किं च-नाभिभूतोऽनभिभूतः अनुकूलपतिकूलोपसगैः परतीर्थिकैर्वा, स एवम्भूतः 'प्रभुः' समों निरालम्बनतायाः-नात्र संसारे मातापितृकलत्रादिकमालम्बनमस्तीति तीर्थकृद्वचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थों भवति, कः पुनः परीपहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति ? इत्येवं पृष्टे तीर्थकृत् सुधर्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाह-यः पुरस्कृतमोक्षो 'महान्' महापुरुषो लघुका ममाभिप्रायान्न विद्यते बहिर्मनो यस्यासावबहिर्मनाः, सर्वज्ञोपदेशवतीति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह-प्रकृष्टो वादः प्रवादः-आचार्यपारम्पर्योपदेशः प्रवादस्तन प्रवादेन प्रवादसर्वज्ञोपदेशं 'जानीयात्' परिच्छिन्द्यादिति । यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थकृद्वचनाद्वहिर्मनो विधत्ते, तीथिकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह- पवाएण पवायं जाणिज्जा' प्रकृष्टो वादः प्रवादः-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं 'जानीयात् परीक्षयेत्, तद्यथा-वैशेषिकाः तनुभुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तम्-“अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव च ॥१॥” इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत्, तद्यथा-अनेन्द्रधनुरादीनां विन
EXAAAAAAAAA
॥२२७॥