SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ गतिं वा पश्यतेति । तदेवमुद्युक्तेतरयोर्गतिमुपलभ्य पञ्चविधाचारसारे प्रक्रमितव्यं, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याह-'अत्रापि'असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत् , बालानुछानविधायी मा भूदिति यावत्, तथाहि-वालाः शाक्यकापिलादयस्तद्भावितो बालभावमाचरति, वक्ति च-नित्यत्वादमूर्त्तत्वाच्चात्मनः प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा प्लोषो वा स्यात् , एवमात्मनोऽपि शरीरविकारेऽविकारित्वम् , उक्तं च-"न जायते न घियते कदाचिन्नायं भूत्वा भवितेति ॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥ १ ॥ अच्छेद्योऽयमभेद्योऽयमधिकारी स उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः॥२॥” इत्यादि ॥ अध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह तुमंसि नाम सच्चेव जं हंतव्वंति मन्नसि, तुमंसि नाम सच्चेव जं अजावेयव्वंति मनसि, तुमंसि नाम सच्चेव जं परियावेयव्वंति मनसि, एवं जं परिचित्तव्वंति मनसि, जं उद्दवेयंति मन्नसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेय णमप्पाणेणं जं हँतव्वं नाभिपत्थए (सू०१६४) योऽयं हन्तव्यत्वेन भवताऽध्यवसितः स त्वमेव, नामशब्दः सम्भावनायां, यथा भवान् शिरःपाणिपादपार्श्वपृष्ठोरूद
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy