SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीआचारामवृत्तिः (शी०) लोक०५ उद्देशका५ ॥२२४॥ क्षया, असम्यगपर्यालोचनतयाऽशुद्धाध्यवसायतयेतियावत् , 'यद्यथा शङ्कयेत्तत्तथैव समापयेते'ति वचनादिति ६ ॥ यदिवा -“समियंति मन्नमाणस्स" इत्याद्यन्यथा व्याख्यायते-शमिनो भावः शमिता 'इतिः' उपप्रदर्शने तामेतां शमितां मन्यमानस्य शुभाध्यवसायिनः 'एकदे'त्युत्तरकालमपि शमितैव भवति-उपशमवत्तैवोपजायते, अन्यस्य तु शमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति । तदेवं सम्यगसम्यगित्येवं पर्यालोचयन्नपरस्याप्युपदेशदानायालमिति, आह च-आगमपरिकम्मितमतित्वाद्यथावस्थितपदार्थस्वभावदर्शितया सम्यगसम्यगिति चोप्रेक्षमाणः-पोलोचयन्नपरमनुप्रेक्षमाणं गड्डुरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणं शङ्कया वाऽपधावन्तं ब्रूयाद्, यथा-'उप्रेक्षस्व'पर्यालोचय सम्यग्भावेन माध्यस्थमवलम्ब्य किमेतदर्हदुक्तं जीवादितत्त्वं घटामिय ाहोश्चिन्नेत्यक्षिणी निमील्य चिन्तयेति भावः। यदिवा उप्रेक्षमाणः संयममुत्-प्राबल्येनेक्षमाणः-संयमे उद्यच्छन्ननुलेक्षमाणं ब्रूयात् , यथा-सम्यग्भावापन्नः सन् संयममुरेक्षस्व-संयमे उद्योगं कुरु । किमवलम्ब्येत्याह-'इत्येवं' पूर्वोक्तेन प्रकारेण 'तत्र' तस्मिन् संयमे 'सन्धिः' कर्मसन्ततिरूपो 'झोषितः' क्षपितो भवति, यदि संयमे सम्यग्भांवे वोलेक्षणं स्यात्, नान्यथेति । सम्यगुप्रेक्षमाणस्य च यत्स्यात्तदाह-से तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवति-या पदवी भवति तां सम्यगनुपश्यत यूयं, तद्यथा-सकललोकश्लाध्यता ज्ञानदर्शनस्थैर्य चारित्रे निष्पकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात्, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य-संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गति-सकलजनोपहास्यरूपामधमस्थान ॥२२४॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy