________________
SANSKROSANSAMSUSNESS
साधयेत् , सर्वधर्मप्रसाधकस्य हेतोरसम्भवादिति । पुनरपि विचित्रभावनामाह-कस्यचित् मिथ्यात्वलेशानुविद्धस्य कथं पौद्गलिकः शब्द इत्यादिकमसम्यगिति मन्यमानस्य 'एकदेति मिथ्यात्वपरमाणूपशमतया शङ्काविचिकित्साद्यभावे गुर्वाधुपदेशतः सम्यगिप्ति भवति, यदि हि पौद्गलिकः शब्दो न स्यात् ततस्तस्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्य न स्याताम् , अमूर्तत्वादाकाशवदित्यादिकं सम्यग् भवति ३ । कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेति-कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति, तथाहि-चतुर्दशरज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणोः स्यात्, प्रदेशयोर्लोकान्तद्वयगतयोवैक्यमित्यादिकमसम्यगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा-विनसापरिणामेन शीघ्रगतित्वात् परमाणोरेकसमयेनासख्येयप्रदेशातिक्रमणं, यथा हि अङ्गलिद्रव्यमेकसमयेनासङ्ख्ययानप्याकाशप्रदेशानति|लयति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेऽनुमानमन्वेष्टव्यं, तथाहियद्यनेकप्रदेशातिक्रमणं सामयिकं न भवेत् ततोऽङ्गलमात्रमपि क्षेत्रमसङ्ख्ये यसमयातिक्रमणीयं स्यात्, तथा च सति रष्टेष्टंबाधाऽऽपद्यतेति यत्किञ्चिदेतत् ४ । साम्प्रतं भङ्गाकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्य शङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तु यलेन तथारूपतयैव भावितं तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुत्प्रेक्षया-पयोलोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचिनाण्युपमर्दवत् ५। साम्प्रतमेतद्विपयेयमाह-असम्यगिति | किश्चिद्वस्तु मम्यमानस्य शङ्का स्यादर्वाग्दर्शितया छद्मस्थस्य सतस्तद्वस्तु सभ्यग्वा स्वादसम्बग्वा, तस तदसम्यगेवोले