SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ S श्रीआचा- रावृत्तिः (शी०) ॥२२५॥ लोक० ५ उद्देशका५ AAMANASANG रवान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा च भवतो हननोचतं दृष्ट्वा दुःखमुत्पद्यते एवमन्येषामपि, तदुःलापा- दनाच्च किल्बिषानुषङ्गः, इदमुकं भवति-नात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति, उक्तं च-“पश्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येत|दुत्तरसूत्रैर्दर्शयितुमाह-त्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे, यमपद्रावयितव्यमिति मन्यसे असौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्सद्यते एवमस्यापीत्यर्थः, यदिषा यं कायं हन्तव्यादितयाऽध्यवस्यसि तत्रानेको भवतोऽपि भावाश्वमेवासी, एवं मृपावादादावल्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह-'अ 'रिति ऋजुः प्रगुणः साधुरितियावत्, चशब्दोऽवधारणे, एतस्य-हन्तव्यघातकैकत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येतत्यतिबुद्धजीवी साधुरेव तत्सरिज्ञानेन जीवति नापर इत्युक्तं भवति । यदि नामैवं ततः किमित्याह'तस्माद्' हम्यमानत्यात्मन इव महदुःखमुत्सद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां म हन्ता स्यात्, नाप्यपरैर्यातयेत् न च घ्नतोऽनुमन्येत, किं च-संवेदनम्-अनुभवनं अनु-पश्चात्संवेदनं केन?-आत्मना, यसरेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्माभिप्रार्थयेत्-नाभिल ॥२२५॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy