SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ प्रसति बुझ्यादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्य' अनेकार्थत्वाद्धातूनां विहरतः एकाकिनः साधोर्यत्स्यात् तद्दर्शयति-दुष्टं यातं दुर्यातं, गमनक्रियाया गर्हा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहनकस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजङ्घाच्छेदवत्, तथा दुष्टं पराकान्तम्-आकान्तं स्थानमेकाकिनो भवति, स्थूलभद्रेाश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्प्रोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतया अक्षोभेऽपि दुष्पराक्रान्तमेवेति, एतच्च न सर्वस्यैव दुर्यातं दुष्पराकान्तं च भवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षोरिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य?-अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यां स्यात्, तत्र श्रुताव्यक्तो येनाचारप्रकल्पोऽर्थतो नाधिगतो भवति गच्छगतानां तन्निर्गतानां तु नवमपूर्वतृतीयवस्त्विति, वयसा चाव्यक्त आषोडशवर्षाद्गच्छगतानां तन्निर्गतानां च त्रिंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्भावादिति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापि न कल्पते, बालतया सर्वपरिभवास्पदत्वाद् विशेषतः स्तेनकुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम् , अस्यापि कारणाभावे एकचों नानुमता, यतस्तस्यां गुप्तीर्याभाषणादिविषया बहवो दोषाः प्रादुष्पन्ति, तथाहि-ए18| काकी पर्यटन यदीर्यापथं शोधयति ततः श्वायुपयोगाश्यति तदुपयुक्तश्चेन्नेर्यापथं शोधयेदित्यादिकाः शेषा अपि समितयो वाच्याः, अन्यच्च-अजीर्णेन वातादिक्षोभेण वा व्याध्युद्भवे संयमात्मविराधना प्रवचनहीलना च, तत्र यदि
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy