________________
श्रीआचाराजवृत्तिः (शी०)
लोक०५ | उद्देशका३
॥२१३॥
वसद्भिः-सेवमानैः, पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तर्हि शक्यमित्याह-'मुनिः' जगत्रयस्य मन्ता मौनं-मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्मशरीरं वेति । कथं च तडुननमित्याह-प्रान्त-पर्युषितं वल्लचनकाद्यल्पं वा, तदपि रूक्षं विकृतेरभावात् , तत् 'सेवन्ते' तदभ्यवहरन्ति, के ते?-'वीराः' कर्मविदारणसहिष्णवः, किंभूताः-सम्यक्त्वदर्शिनः समत्वदर्शिनो वा । यश्च प्रान्तरूक्षसेवी स किंगुणः स्यादित्याह-'एषः' अनन्तरोक्तविशेषणविशिष्टः ओघो-भावौधः संसारस्तं तरतीति, कोऽसौ ?-मुनिः, वर्तमानसामीप्ये वा वर्तमानवद्वेति तीर्ण एवासौ, सवाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो?-यः सावद्यानुष्ठानाद्विरत इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने तृतीयोद्देशकः परिसमाप्त इति ॥
उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहाद्योद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य मुनित्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोष प्रदर्य विरत एव मुनिर्भवतीत्येतत्प्रतिपादितम् , अमिंश्च एकचरस्यामुनिभावे दोषोद्भावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
गामाणुगामं दूइज्जमाणस्स दुजायं दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो (सू० १५६)
॥२१३॥