SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीआचारानवृत्तिः (शी०) शका ॥२०९॥ SHASHASHISHLASHASHASHASAN झोषित:-क्षपितः अतो य एव तीर्थकृद्भिर्द्धर्मोऽभिहितः स एव मोक्षमार्गो नापर इत्येतदेवाह-यथाऽत्र मया सन्धिझोषितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः-कर्मसन्ततिरूपः दुर्योध्यो भवति-दुःक्षयो भवति, असमीचीनतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्मसन्धिोषितस्ततः किमित्याह-यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेण तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्य 'नो निहन्यात्' नो निगृहयेद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ॥ कश्चैवम्भूतः स्यादित्याह जे पुव्वुढाई नो पच्छानिवाई, जे पुव्वुढाई पच्छानिवाई, जे नो पुवुट्ठायी नो पच्छा| निवाई, सेवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति । (सू० १५२) __यः कश्चिद्विदितसंसारस्वभावतया धर्मचरणकप्रवणमनाः पूर्व-प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वो स्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं ६ वा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत् प्रथमो भङ्गः । द्वितीय-13 भङ्गं सूत्रेणैव दर्शयन्नाह-पूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियोगात्पश्चान्निपाती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति । तृतीयभङ्गस्य चाभावादनुपादानं, ॥२०९॥ .
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy