________________
EKASARIRSANAYAR
स चायम्-'जे नो पुन्बुढायी पच्छानिवाती', तथाहि-उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सति धम्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्तेति । चतुर्थभङ्गदर्शनाय स्वाह-यो हि नो पूर्वोत्थायी न च पश्चान्निपाती सोऽविरत एव गृहस्थः सन्नोत्थायी भवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थानाविनाभावि
त्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः, तेषामप्युभयासद्भावादिति । ननु च गृहस्था एव चतुर्थभताङ्गपतिता युक्ता वक्तुं, तथाहि-तेषां सावद्ययोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दरारोपाभावान्निपाताभावः, शाक्यादिरपि चतुर्थभङ्गपतित इत्यत आह–'सोऽपि' शाक्यादिर्गणः पञ्चमहाव्रतभारारोपणाभावेन सावद्ययोगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वान्नोपश्चान्निपातीत्यतस्तादृश एव-गृहस्थतुल्य एव स्याद्, आस्रवद्वाराणामुभयेषामप्यसंवृतत्वात् , उदायिनृपमारकवत् । अन्येऽपि ये सावधानुष्ठायिनस्तेऽपि तादृक्षा एवेति दर्शयन्नाह-येऽपि स्वयूथ्याः पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थ तमेव लोकमन्वाश्रिता अन्वेषयन्ति वा तेऽपि गृहस्थतुल्या एव भवेयुः ॥ स्वमनीषिकापरिहारार्थमाह
एयं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि, किं ते जुज्झेण बज्झओ? (सू० १५३)