________________
KAHAKAKKAKKARAN
वन्तो भवन्ति, यदिवैतेष्वेव षट्सु जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति । स्यात्-कथमपरिग्रहभावः स्यादित्याह-'सोच्चा' इत्यादि 'वईत्ति सुव्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाचं-तीर्थकराज्ञामागमरूपां 'श्रुत्वा' आकये 'मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा 'पण्डितानां' गणधराचार्यादीनां विधिनियमात्मक वचनं निशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते ?, उच्यते, धर्मकथाऽवसरे, किम्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारेकापनोदा
र्थमाह-'समिय'त्ति 'समता' समशत्रुमित्रता तयाऽऽर्यैर्द्धर्मः प्रवेदित इति, उक्त च-"जो चंदणेण बाहं आलिंपइ वा|| सिणा व तच्छेति । संथुणइ जो अ जिंदति महेसिणो तत्थ समभावा ॥१॥" यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषु ||६||
समतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्-"जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई"त्यादि, अथवा शमिनो भावः शमिता तया सर्वहेयधारातीयवर्तिभिः आर्यैः प्रकर्षणादौ वा धर्मों वेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्मः प्रज्ञापित इतियावत्। स्याद्-अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तव्युदासार्थभगवानेवाह'जहेत्थे'त्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह-यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा | स्वत एव सन्धान सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवागवान्तरमनेनेति सन्धिः-अष्टप्रकारकर्मसन्ततिरूपः स
१ यश्चन्दनेन बाहू आलिम्पति वास्या चा तक्ष्णोति । संस्तौति यश्च निन्दति महर्षयस्तत्र समभावाः ॥ १॥