________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २०८ ॥
व्यवस्थितस्यैवेति । किं च - 'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः कोऽसौ १ - नास्यागारं गृहं विद्यत इत्यनगारः, स एवम्भूतो 'दीर्घरात्रं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् 'तितिक्षेत' सहेत । पुनरप्युपदेशदानायाह - 'पमत्ते' इत्यादि, प्रमत्तान् - विषयादिभिः प्रमादैर्बहिर्द्धम्र्म्माद्व्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्ट्वा च किं कुर्यादिति दर्शयति- अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किं च - 'एय' मित्यादि, 'एतत्' पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं सर्वज्ञोक्तं सम्यग् 'अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । लोकसाराध्ययने द्वितीयोदेशकः समाप्तः
उक्त द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धः - इहानन्तरोक्तोदेशकेऽविरतवादी परिग्रहवानित्यभिहितम्, इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् -
आवंती यावंती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्थ मए संधी झोसिए एवमन्नत्थ संधी दुज्जोसए भवइ, तम्हा बेमि नो निहणिज वीरियं । (सू० १५१) यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव - अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रह
लोक० ५
उद्देशक:३
॥ २०८ ॥