SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ज्ञया परिहरेत् । तसरिहर्जुश्च यत्स्यात्तदाह-एए संगे' इत्यादि, 'एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसगान् वा 'अविजानतः'अकुर्वाणस्य वा तत्परिग्रहजनितं महाभयं न स्यात् ॥ किं च से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिकमा, एएसु चेव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयं च मे-बंधपमुक्खो अज्झत्थेव, इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिव्वए, एयं मोणं सम्मं अ णुवासिज्जासि तिबेमि (सू० १५०)। लोकसाराध्ययने द्वितीयोद्देशकः ५-२॥ 'से' तस्य परिग्रहपरिहर्तुः सुष्टु प्रतिबद्धं सुप्रतिबद्धं सुष्टुपनीतं सूपनीतं ज्ञानादि इत्येतत् ज्ञात्वा 'हे पुरुष!' मानव ! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षकदृष्टिवा सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वा पराक्रमस्वेति । | अथ किमर्थं पराक्रमणोपदेश इत्यत आह–'एएसु चेवे' त्यादि, य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्य नान्येषु, नवविधब्रह्मचर्यगुप्त्यभावाद् , यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्य तदेतेवेवापरिग्रहवत्सु, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह-से सुअं च में इत्यादि, तद्यत् कथितं यच्च कथयिष्यामि तच्छुतं च मया तीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्मं ममैतच्चेतसि व्यवस्थितं, किं तदध्यात्मनि स्थितमिति दर्शयतिबन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा 'अध्यात्मन्येव' ब्रह्मचर्ये
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy