________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २०७ ॥
चित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वर्त्तिनो व्रतिनोऽपि स्युः, यदिवैतेष्वेव षट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूर्च्छा कुर्व्वन्तः परिग्रहवन्तो भवन्ति, तथा चाविरतो | विरतिवादं वदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम्, एकदेशापराधादपि सर्वापराधितासम्भवः, अनिवारितास्रवत्वात् । यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सर| जस्कबोटिकादयोऽपरिग्रहाः स्युः, तेषां तदभावात्, नैतदस्ति, तदभावादित्यसिद्धो हेतुः तथाहि - सरजस्कानामस्थ्यादिपरिग्रहाद्घोटिकानामपि पिच्छिकादिपरिग्रहाद् अन्त (न्तत )श्व शरीराहारादिपरिग्रहसद्भावात्, धर्मोपष्टम्भकत्वाददोष इति चेद् तद् इतरत्रापि समानं, किं दिगम्बराग्रहग्रहेणेति । एतच्चाल्पादिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिनां चाहारशरीरादिकं महतेऽनर्थायेति दर्शयन्नाह - 'एतदेवे' त्यादि एतदेव - अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां परिग्रहवतां नरकाद्गिमनहेतुत्वात् सर्वस्या विश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्व्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्यात्पस्यापि पात्रत्वक्त्राणादेर्द्धम्मोंपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुञ्जानस्य कर्म्मबन्धजनितमहाभयहेतुत्वान्महाभयं तथैतद्धर्मशरीरं समस्ताच्छादनाभावाद्वीभत्सं परेषां महाभयं तन्निरवद्यविधिपालनाभावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते - 'लोगं' इत्यादि, 'लोकस्य' असंयतलोकस्य 'वित्तं' द्रव्यमल्पादिविशेषणविशिष्टं चशब्दः पुनः शब्दार्थे, णमिति वाक्यालङ्कारे, लोकवित्तं लोकवृत्तं वा आहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयाय. पुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरि
लोक० ५ उद्देशकः२
॥ २०७ ॥