________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥२०४॥
__ 'यावन्तः' केचन 'लोके' मनुष्यलोके 'अनारम्भजीविनः' आरम्भः-सावद्यानुष्ठानं प्रमत्तयोगो वा, उक्तं च-"आदाणे लोक. ५ निक्खेवे भासुस्सग्गे अ ठाणगमणाई । सव्वो पमत्तजोगो समणस्सवि होइ आरंभो ॥१॥" तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलं येषां इत्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताः तेष्वेव-गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्व
का उद्देशकार नारम्भजीविनो भवन्ति, एतदुक्तं भवति-सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवन्निर्लेपा एव भवन्ति । यद्येवं ततः किमित्याह-'अत्र' अस्मिन् सावद्यारम्भे कर्तव्ये 'उपरतः सङ्कुचितगात्रः, अत्र वाऽऽहते धर्मे व्यवस्थित उपरतः पापारम्भात्, किं कुर्यात् स?-'तत्' सावद्यानुष्ठानायातं कर्म 'झोषयन्' क्षपयन् । मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह-'अयं संधी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका धातवो, यथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगेऽप्ययं सन्धिरिति प्रथमा कृतेति, 'अय'मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणः 'सन्धिः' अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भवानित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् । कश्च न प्रमत्तः स्यादित्याह-'जे इमस्स' इत्यादि, 'य' इत्युपलब्धतत्त्वः 'अस्य' अध्यक्षस्य विशेषेण गृह्यते अनेनाष्टप्रकारं कर्म तद्वेतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत || इति विग्रहः-औदारिकं शरीरं तस्य 'अयं' वार्त्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्च गतः एवम्भूतश्च भावीत्येवं
॥२०४॥ १ आदाने निक्षेपे भाषायामुत्सर्गे च स्थाने गमनादौ । सर्वः प्रमत्तयोगः श्रमणस्यापि भवत्यारम्भः ॥१॥