________________
आ. सू. ३५
यः क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह - 'एस मग्गे' इत्यादि, 'एषः' अनन्तरोको 'मार्गो' मोक्षपथः 'आर्यैः' सर्वहेयधर्म्मारातीय (तीर) वर्त्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा वेदितः कथितः प्रवेदित इति । न केवलमनन्तरोको वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति तदाह- 'उट्ठिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्म्मचरणाय क्षणमप्येकं न प्रमादयेत् । किं चापरमधिगम्येत्याह - ' जाणित्तु' इत्यादि, ज्ञात्वा प्राणिनां प्रत्येकं दुःखं तदुपादानं वा कर्म्म तथा प्रत्येकं सातं च-मनआह्नादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म्म वा प्रत्येकं, तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह- 'पुढो' इत्यादि, पृथगू - भिन्नः छन्दः - अभिप्रायो येषां ते पृथग्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे'ति संसारे संज्ञिलोके वा, के ते? - 'मानवाः' मनुष्याः, उपलक्षणार्थत्वादन्येऽपि, संज्ञिनां पृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह - 'पुढो' इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक् प्रवेदितं, सर्वस्य स्वकृतकर्म्मफलेश्वरत्वात् नान्यकृतमन्य उपभुङ्क्ते इति । एतन्मत्वा किं कुर्यादित्याह - ' से ' इत्यादि, 'सः' अनारम्भजीवी प्रत्येक सुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तथाऽनपवदन् - अन्यथैव व्यव - स्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन्, मृषावादमब्रुवन्नित्यर्थः, पस्य व तस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम् । एतद्विधायी च किमपरं कुर्यादित्याह - 'पुट्ठो' इत्यादि, स पञ्चमहाव्रतव्यवस्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गैस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा त