SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ र्दिष्टस्वरूपाः 'अनुपरताः पापानुष्ठानेभ्योऽनिवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषा विद्या अतो विपर्ययेणाविद्या तया परि-समन्तात् मोक्षमाहुः ते धर्म्म नाभिजानन्त इति सम्बन्धः, धर्ममजानानाश्च किमाप्नुयुरित्याह - 'आवहं' इत्यादि, भावावर्त्तः - संसारस्तमरघट्टघटी यन्त्रन्यायेनानुपरिवर्त्तन्ते, तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत् । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । लोकसाराध्ययने प्रथमोद्देशक इति ॥ १ ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इह प्रागुद्देशके एकचर्याप्रतिपन्नोऽपि साविद्यानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तम्, इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् - आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे 'इमस्स विग्गहस्स अयं खणेत्ति अन्नेसी एस मग्गे आरिएहिं पape, उट्टिए नो पमायए, जाणित्तु दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुन्नए (सू० १४६ )
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy