________________
लोक०५
श्रीआचा- रावृत्तिः (शी०)
उद्देशका
॥२०३॥
इत्यादि, 'स' विषयगृनुरिन्द्रियानुकूलवत्येकचर्याप्रतिपन्नस्तीथिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति बहुक्रोधः, तथा वन्द्यमानो मानमुद्बहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च वहुमायी, सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजाः-बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवभोगार्थ बहून् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पा:-कर्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्या वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह-'आसव' इत्यादि, आस्रवाः-हिंसादयस्तेषु सक्तं-सङ्गं आश्रवसक्तं तद्विद्यते यस्यासावाश्रवसक्ती-हिंसाद्यनुषङ्गवान् पलितं-कर्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत्, स चैवम्भूतोऽपि किं ब्रूयादित्याह-'उहिय'इत्यादि, धर्माचरणायोद्युक्तः उत्थितस्तद्वाद उत्थितवादस्तं प्रवदन् , तीथिकोऽप्येवमाह-यथा अहमपि प्रव्रजितो धर्मचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छा-2 द्यत इति । स चोत्थितवादी आस्रवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्तत इत्याह-'मा में'इत्यादि, मा मां 'केचन' अन्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नंमकार्य विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किं च-'सययमित्यादि, 'सततम्' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा 'धम्मै श्रुतचारित्राख्यं नाभिजानाति, न वि|| वेचयतीत्यर्थः । यद्येवं ततः किमित्याह-'अट्टा' इत्यादि, आर्ता विषायकषायैः 'प्रजायन्त' इति प्रजाः-जन्तवः हे ||8 मानव!, मनुजस्यैवोपदेशार्हत्वान्मानवग्रहणं, 'कर्मणि' अष्टप्रकारे विभत्सिते 'कोविदाः' कुशलाः, न धर्मानुष्ठान इति, के पुनः ते ये सततं धर्म नाभिजानन्ति कर्मबन्धकोविदाश्चेति?, अत आह-जे अणुवरया' इत्यादि, ये केचनामि
॥२०३॥