SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ तीर्थकाणामिति गाथार्थः । तदेवं सामान्यतो द्रव्यादिकं चारं प्रदर्य प्रकृतोपयोगितया यते वचारं प्रशस्तं प्रश्नद्वारेण दर्शयितुमाह- . AI लोगे चउब्विहमी समणस्स चउन्विहो कहं चारो?। होई घिई अहिगारो विसेसओ खित्तकालेसं ॥२४॥ | 'लोके' चतुर्विधे द्रव्यक्षेत्रकालभावरूपे 'श्रमणस्य' श्राम्यतीति श्रमणो-यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्थाद, इति प्रश्ने निर्वचनमाह-भवति धृतिरित्येषोऽधिकारः, द्रव्ये तावदरसविरसपान्तरूक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थिकभाविते प्रकृत्यभद्रके वा नोद्वेगः कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्यं, भावेडप्याक्रोशोपहसनादौ नोद्दीपितव्यं, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तनिमित्तत्वात् ॥ पुनरपि द्रव्यादिकं विशेषतो यतेश्चारमाह| पावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते । उम्मग्गवजए रागदोसविरए य से विहरे ॥ २४९॥ MI 'पापोपरतः' पापात्-पापहेतोः सावद्यानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरतः पापोपरतः, तथा न विद्यते परि ग्रहोऽस्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः, क्षेत्रचारमाह-गुरोः कुलं गुरुकुलं-गुरुसान्निध्यं तत्सेवको-युक्तः समन्वितो यावज्जीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह-उद्गतो मार्गादुन्मार्गः-अकार्याचरणं तद्वर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्-संयमानुष्ठानं कुर्यादिति, गता | नियुक्तिः । साम्प्रतं सूत्रमनुश्रियते-तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूतः स्यादित्याह-से बहु कोहे'
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy