________________
श्रीआचा- राङ्गवृत्तिः (शी०)
लोक०५ उद्देशकार
द
॥२०२॥
त्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति। तदेवं सूत्रार्थे व्याख्याते सूत्रसर्शिकनियुक्त्या नियुक्तिकारो व्याचिख्यासुराह
चारो चरिया चरणं एगह्र वंजणं तहिं छक्कं । दव्वं तु दारुसंकम जलथलचाराइयं बहुहा ॥ २४६ ॥ __ 'चार' इति 'चर गतिभक्षणयोः' भावे घञ् , चर्येति 'गदमदचरयमश्चानुपसर्गे' (पा०३-१-१००) इत्यनेन कर्मणि भावे वा यत् , चरणमिति वा, भावे ल्युट् , एकः-अभिन्नोऽर्थोऽस्येत्येकार्थ, किं तत् ?-व्यञ्जन व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जन-शब्द इत्येतत्पूर्वोक्त शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथग् निक्षेपः, 'तत्र' चारनिक्षेपे पढूं, चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारं गाथाशकलेन दर्शयति-'दव्वं तु' त्ति तुशब्दः पुनःशब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्क्रमश्च जलस्थलचारश्च दारुसङ्क्रमजलस्थलचारौ तावादी यस्य तदारुसमजलस्थलचारादिकं 'बहुधा' अनेकधा, तत्र दारुसङ्कमो जले सेत्वादिः क्रियते, स्थले वा गर्तलङ्घनादिकः, जलचासे नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपतयादिरिति, यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः॥ साम्प्रतं क्षेत्रादिकमाहखित्तं तु जंमि खित्ते कालो काले जहिं भवे चारो। भावंमि नाणदंसणचरणं तु पसत्थमपसत्थं ॥२४७॥
क्षेत्र पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं स कालचारः, भावे तु द्विधा चरणं-प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तं गृहस्थान्य
२
॥